ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।।


ॐ राजाधिराजाय प्रसह्यसाहिने ।

नमो वयं वैश्रवणाय कुर्महे ।

स मे कामान्कामकामाय मह्यम् ।

कामेश्वरो वैश्रवणो ददातु ।

कुबेराय वैश्रवणाय महाराजाय नमः ।।


ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं ।

महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुष आन्तादापरार्धात् ।

पृथिव्यै समुद्रपर्यन्ताया एकराळिति ।।


ॐ तदेष श्लोकोऽभिगीतो ।

मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे ।

आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ।।


॥ श्री भगवते नमः मंत्रपुष्पांजलिं समर्पयामि ॥

ही आरती तुमच्या पूजा पोथीत जोडा आणि सलग वाचायह आरती अपनी पूजा पोथी में जोड़ें और क्रमबद्ध पढ़ेंAdd this Aarti to your custom Pooja Pothi to recite sequentially

माझी पोथी बनवा →मेरी पोथी बनाएं →Make Pooja Pothi →