प्रथम:

ॐ यज्ञेन यज्ञमयजन्त देवाः,

तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमानः सचन्त,

यत्र पूर्वे साध्याः सन्ति देवाः ।।


द्वितीय:

ॐ राजाधिराजाय प्रसह्य साहिने,

नमो वयं वैश्रवणाय कुर्महे ।

स मे कामान् कामकामाय मह्यम्,

कामेश्वरो वैश्रवणो ददातु ।

कुबेराय वैश्रवणाय,

महाराजाय नमः ।।


तृतीय:

ॐ स्वस्ति,

साम्राज्यं भौज्यं स्वाराज्यं,

वैराज्यं पारमेष्ठ्यं राज्यं,

महाराज्यमाधिपत्यमयं,

समन्तपर्यायी स्यात् ।

सार्वभौमः सार्वायुषः,

आन्तादापरार्धात् ।

पृथिव्यै समुद्रपर्यन्ताया,

एकराळिति ।।


चतुर्थ:

तदप्येषः श्लोकोऽभिगीतो,

मरुतः परिवेष्टारो,

मरुत्तस्यावसन् गृहे ।

आविक्षितस्य कामप्रेः,

विश्वेदेवाः सभासद इति ।।


॥ मंत्रपुष्पांजली समर्पयामि ॥

ही आरती तुमच्या पूजा पोथीत जोडा आणि सलग वाचायह आरती अपनी पूजा पोथी में जोड़ें और क्रमबद्ध पढ़ेंAdd this Aarti to your custom Pooja Pothi to recite sequentially

माझी पोथी बनवा →मेरी पोथी बनाएं →Make Pooja Pothi →